|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.188. अध्यायः 188
Mahabharata - Shanti Parva - Chapter Topics
भृगुणा भरद्वाजंप्रति धर्माधर्मयोः सुखदुःखसाधनत्वे प्रतिपादिते ऋष्यादीनां स्वर्गानपेक्षणाद्व्यभिचारशङ्किना भरद्वाजेरतदाक्षेपः॥ 1॥ भृगुणा मोक्षस्वरूपनिरूपणपूर्वकं निष्कामकर्मणस्तत्साधनत्वमक्षतमिति स्वाभिप्रायाविष्करणम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भृगुरुवाच। 12-188-0x(5940)
सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः।
सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति॥ 12-188-1(72457)
अनृतं तमसो रूपं तमसा नीयते ह्यधः।
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसाऽऽवृतम्॥ 12-188-2(72458)
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च।
सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः॥ 12-188-3(72459)
तत्र त्वेवंविधा लोके वृत्तिः सत्यानृते भवेत्।
धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा॥ 12-188-4(72460)
तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति। तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति॥ 12-188-5(72461)
अत्रोच्यते। 12-188-6x(5941)
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः।
लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः॥ 12-188-6(72462)
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः।
सुखं ह्यनित्यं भूतानामिह लोके परत्र च॥ 12-188-7(72463)
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते।
तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम्॥ 12-188-8(72464)
तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च। इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्थमभिधीयन्ते न ह्यतः परं त्रिवर्गफलं विशिष्टतरमस्ति स एष काम्यो गुणविशेषो धर्मार्थगुणारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थ आरम्भः॥ 12-188-9(72465)
भरद्वाज उवाच। 12-188-10x(5942)
यदेतद्भवताऽभिहितं सुखानां परमार्थस्थितिरिति तन्न गृह्णीमो न ह्येषामृषीणां तपसि स्थितानामप्राप्य एव काम्यो गुणविशेषो न चैनमभिलषन्ति च तपसि श्रूयते त्रिलोकेकृद्ब्रह्मा प्रभुरेकाकी तिष्ठति। ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति। अपिच भगवान्विश्वेश्वर [उमापतिः] काममभिवर्तमानमनङ्गत्वेन नाशमनयत्। तस्माद्ब्रूमो न तु महात्मभिः प्रतिगृहीतोऽयमर्थो तत्वेष तावद्विशिष्टो गुणगण इति। नैतद्भगवान्प्रत्येति भगवतोक्तं सुखानां परमार्थस्थितिरिति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति॥ 12-188-10(72466)
भृगुरुवाच। 12-188-11x(5943)
अत्रोच्यते। अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम्। क्रोधलोभमोहमदादिभिरवच्छन्ना न खल्वस्मिँल्लोके नामुत्र सुखमाप्नुवन्ति। विविधव्याधिव्रणरुजोपतापैरवकीर्यन्ते। वधबन्धननिरोधपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते। चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते। बन्धुधनविननाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति॥ 12-188-11(72467)
यदैतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते तत्सुखं विद्यात्।
न चैते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र खलु भवन्ति॥ 12-188-12(72468)
सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा।
क्षुत्पिपासाश्रमो नास्ति न जरा न च पातकम्॥ 12-188-13(72469)
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्।
नरके दुःखमेवाहुः सुखं तु परमं पदम्॥ 12-188-14(72470)
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः।
पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः॥ 12-188-15(72471)
इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा।
प्रजा विपरिवर्न्तते स्वैः स्वैः कर्मभिरावृताः॥ ॥ 12-188-16(72472)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः॥ 188॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-188-9 लोके वस्तुप्रवृत्तयः इति झ. पाठः॥ 12-188-10 अनङ्गत्वेन शममनयत् इति झ. पाठः॥ 12-188-11 क्रोधलोभहिंसानृतादिभिरिति चण्डवातात्युष्णेति च झ. पाठः॥ 12-188-16 प्रजाः समनुवर्तन्ते इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|